वांछित मन्त्र चुनें

यु॒वं रथे॑न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू॑हथुः पुरुमि॒त्रस्य॒ योष॑णाम् । यु॒वं हवं॑ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथु॒: पुरं॑धये ॥

अंग्रेज़ी लिप्यंतरण

yuvaṁ rathena vimadāya śundhyuvaṁ ny ūhathuḥ purumitrasya yoṣaṇām | yuvaṁ havaṁ vadhrimatyā agacchataṁ yuvaṁ suṣutiṁ cakrathuḥ puraṁdhaye ||

पद पाठ

यु॒वम् । रथे॑न । वि॒ऽम॒दाय॑ । शु॒न्ध्युव॑म् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योष॑णम् । यु॒वम् । हव॑म् । व॒ध्रि॒ऽम॒त्याः । अ॒ग॒च्छ॒त॒म् । यु॒वम् । सुऽसु॑तिम् । च॒क्र॒थुः॒ । पुर॑म्ऽधये ॥ १०.३९.७

ऋग्वेद » मण्डल:10» सूक्त:39» मन्त्र:7 | अष्टक:7» अध्याय:8» वर्ग:16» मन्त्र:2 | मण्डल:10» अनुवाक:3» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवम्) हे अध्यापक-उपदेशको ! (पुरुमित्रस्य विमदाय) बहुतों के मित्र ब्रह्मचारी के विशिष्ट हर्ष के सम्पादन के लिए (शुन्ध्युवं योषणां नि-ऊहथुः) पवित्र-गृहस्थ-सम्पर्करहित ब्रह्मचारिणी को नियुक्त करो (युवम्) तुम दोनों (वध्रिमत्याः-हवम्-अगच्छतम्) संयमनी-संयम में रखनेवाली मेखलायुक्त-पूर्णसंयत के प्रार्थनावचन को प्राप्त होओ (युवं पुरन्धये सुषुतिं चक्रथुः) तुम दोनों घर को धारण करनेवाली सुख सन्तान सम्पत्ति हमारे लिए सम्पादित करो ॥७॥
भावार्थभाषाः - अध्यापक और उपदेशक या अध्यापिका और उपदेशिका अपने शिष्य और शिष्याओं को पूर्ण ब्रह्मचारी और ब्रह्मचारिणी बनाकर दोनों का यथायोग्य विवाहसम्बन्ध नियुक्त-स्थापित करें। उन्हें उत्तम सन्तान सुखसम्पत्ति से युक्त करें ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (युवम्) हे अश्विनौ ! अध्यापकोपदेशकौ ! युवाम् (पुरुमित्रस्य विमदाय) बहूनां मित्रभूतस्य ब्रह्मचारिणो विशिष्टहर्षसम्पादनाय (शुन्ध्युवं योषणां नि-ऊहथुः) पवित्रां गृहस्थसम्पर्करहितां कुमारीं ब्रह्मचारिणीं नियुक्तां कुरुतम् (युवम्) युवाम् (वध्रिमत्याः हवम्-अगच्छतम्) संयमनीमत्याः पूर्णसंयतायाः प्रार्थनावचनमभिप्रायं वा प्राप्नुतम् (युवं पुरन्धये सुषुतिं चक्रथुः) युवां पुरं गृहं धारयित्र्यां सुखसन्तानसम्पत्तिं कुरुथः ॥७॥